श्रीवेङ्कटेशस्तोत्रम्
कमलाकुचचूचुक कुङ्कुमतो नियतारुणितातुलनीलतनो ।
कमलायतलोचन लोकपते विजयी भव वेङ्कटशैलपते ॥१॥
सचतुर्मुखषण्मुखपंचमुखप्रमुखाखिलदैवतमौलिमणे ।
शरणागतवत्सल सारनिधे परिपालय मां वृषशैलपते ॥२॥
अतिवेलतया तव दुर्विषहै रनुवेलकृतैरपराधशतै।
भरितं त्वरितं वृषशैलपते परया कृपया परिपाहि हरे ॥३॥
अधिवेङ्कटशैलमुदारमतेजनताभिमताधिकदानरतात् ।
परदेवतया गदितान्निगमैः कमलादयितान्न परं कलये ॥४॥
कलवेणुरवावशगोपवधू शतकोटिवृतात्स्मरकोटिसमात् ।
प्रतिपल्लविकाभिमतात्सुखदात् वसुदेवसुतान्न परं कलये ॥५॥
अभिरामगुणाकर दाशरथे जगदेकधनुर्धर धीरमते ।
रघुनायक राम रमेश विभो वरदो भव देव दयाजलधे ॥६॥
अवनीतनयाकमनीयकरं रजनीकरचारुमुखाम्बुरुहम् ।
रजनीचरराजतमोमिहिरं महनीयमहं रघुराममये ॥७॥
सुमुखं सुहृदं सुलभं सुखदं स्वनुजं च सुकायममोघशरम् ।
अपहाय रघूद्वहमन्यमहं न कथञ्चन कञ्चन जातु भजे ॥८॥
विना वेङ्कटेशं न नाथो न नाथः सदा वेङ्कटेशं स्मरामि स्मरामि ।
हरे वेङ्कटेश !प्रसीद प्रसीद प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ॥९॥
अहं दूरतस्ते पदाम्भोजयुग्मप्रणामेच्छयाऽऽगत्य सेवां करोमि ।
सकृत्सेवया नित्यसेवाफलं त्वं प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश ॥१०॥
अज्ञानिना मया दोषानशेषान् विहितान् हरे ।
क्षमस्व त्वं क्षमस्व त्वं शेषशैलशिखामणे ॥११॥
इति श्री वेङ्कटेश स्तोत्रम् सम्पूर्णम्
श्रीवेङ्कटेशस्तोत्रम् 2
0
जनवरी 18, 2017
