विष्णुस्तवराजः

पद्मोवाच :
योगेन सिद्धविबुधैः परिभाव्यमानं लक्ष्म्यालयं तुलसिकाचितभक्तभृङ्गम् ।
प्रोत्तुङ्गरक्तनखराङ्गुलिपत्रचित्रं गङ्गारसं हरिपदाम्बुजमाश्रयेऽहम् ॥१॥

गुम्फन्मणिप्रचयघट्टितराजहंससिञ्जत्सुनूपुरयुतं पदपद्मवृन्दम् ।
पीताम्बराञ्चलविलोलचलत्पताकं स्वर्णत्रिवक्रवलयं च हरेः स्मरामि ॥२॥

जंघे सुर्पणगलनीलमणिप्रवृद्धशोभास्पदारुणमणिद्युतिचञ्चुमध्ये ।
आरक्तपादतललम्बनशोभमाने लोकेक्षणोत्सवकरे च हरेः स्मरामि ॥३॥

ते जानुनी मखपतेर्भुजमूलसङ्गरङ्गोत्सवावृततडिद्वसने विचित्रे ।
चञ्चत्पतत्रिमुखनिर्गतसामगीतविस्तारितात्मयशसी च हरेः स्मरामि ॥४॥

विष्णोः कटिं विधिकृतान्तमनोजभूमिं जीवाण्डकोशगणसङ्गदुकूलमध्याम् ।
नानागुणप्रकृतिपीतविचित्रवस्त्रां ध्याये निबद्धवसनां खगपृष्ठसंस्थाम् ॥५॥

शान्तोदरं भगवतस्त्रिवलिप्रकाशमावर्तनाभिविकसद्विधिजन्मपद्मम् ।
नाडीनदीगणरसोत्थसितान्त्रसिन्धुं ध्यायेऽण्डकोशनिलयं तनुलोमरेखम् ॥६॥

वक्षः पयोधितनयाकुचकुङ्कुमेन हारेण कौस्तुभमणिप्रभया विभातम् ।
श्रीवत्सलक्ष्म हरिचन्दनजप्रसूनमालोचितं भगवतः सुभगं स्मरामि  ॥७॥

बाहू सुवेषसदनौ वलयाङ्गदादिशोभास्पदौ दुरितदैत्यविनाशदक्षौ ।
तौ दक्षिणौ भगवतश्च गदासुनाभतेजोर्जितौ सुललितौ मनसा स्मरामि ॥८॥

वामौ भुजौ मुररिपोर्धृतपद्मशङ्खौ श्यामौ करीन्द्रकरवन्मणिभूषणाढ्यौ ।
रक्ताङ्गुलिप्रचयचुम्बितजानुमध्यौ पद्मालयाप्रियकरौ रुचिरौ स्मरामि ॥९॥

कण्ठं मृणालममलं मुखपङ्कजस्य लेखात्रयेण वनमालिकया निवीतम् ।
किंवा विमुक्तिवशमन्त्रकसत्फलस्य वृन्तं चिरं भगवतः सुभगं स्मरामि ॥१०॥

वक्त्राम्बुजं दशनहासविकासरम्यं रक्ताधरौष्ठवरकोमलवाक्सुधाढ्यम ।
सन्मानसोद्भवचलेक्षणपत्रचित्रं लोकाभिरामममलं च हरेः स्मरामि ॥११॥

सूरात्मजावसथगन्धमिदं सुनासं भ्रूपल्लवं स्थितिलयोदयकर्मदक्षम् ।
कामोत्सवं च कमलाहृदयप्रकाशं सञ्चिन्तयामि हरिवक्त्रविलासदक्षम् ॥१२॥

कर्णौ लसन्मकरकुण्डलगन्धलोलौ नानादिशां च नभसश्च विकासगेहम् ।
लोलालकप्रचयचुम्बनकुञ्चिताग्रौ लग्नौ हरेर्मणिकिरीटतटे स्मरामि ॥१३॥

भालं विचित्रतिलकं प्रियचारुगन्धगोरोचनारचनया ललनाक्षिसख्यम् ।
ब्रह्मैकधाममणिकान्तकिरीटजुष्टं ध्याये मनोनयनहारकमीश्वरस्य ॥१४॥

श्रीवासुदेवचिकुरं कुटिलं निबद्धं नानासुगन्धिकुसुमैः स्वजनादरेण ।
दीर्घं रमाहृदयगाशमनं धुनन्तं ध्यायेऽम्बुवाहरुचिरं हृदयाब्जमध्ये ॥१५॥

मेघाकारं सोमसूर्यप्रकाशं सुभ्रून्नासं शक्रचापैकमानम् ।
लोकातीतं पुण्डरीकायताक्षं विद्युच्चैलं चाश्रयेऽहं त्वपूर्वम् ॥१६॥

दीनं हीनं सेवया दैवगत्या पापैस्तापैः पूरितं मे शरीरम् ।
लोभाक्रान्तं शोकमोहादिविद्धं कृपादृष्ट्या पाहि मां वासुदेव ॥१७॥

ये भक्त्याऽद्यां ध्यायमानां मनोज्ञां व्यक्तिं विष्णोः षोडशश्लोकपुष्पैः ।
स्तुत्वा नत्वा पूजयित्वा विधिज्ञाः शुद्धा मुक्ता ब्रह्मसौख्यं प्रयान्ति ॥१८॥

पद्मेरितमिदं पुण्यं शिवेन परिभाषितम् ।
धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं परम् ॥१९॥

पठन्ति ये महाभागास्ते मुच्यन्तेऽहसोऽखिलात् ।
धर्मार्थकाममोक्षाणां परत्रेह फलप्रदम् ॥२०॥

इति श्रीकल्किपुराणेऽनुभागवते भविष्ये पद्माप्रोक्तो विष्णुस्तवराजः सम्पूर्णम्

एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.