श्रीविष्णोः प्रातःस्मरणम्

 श्रीविष्णोः प्रातःस्मरणम्

प्रातः स्मरामि भवभीतिमहार्तिशान्त्यै
     नारायणं गरुडवाहनमब्जनाभम् ।
ग्राहाभिभूतवरवारणमुक्तिहेतुं
     चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥१॥

प्रातर्नमामि मनसा वचसा च मूर्ध्ना
     पादारविन्दयुगलं परमस्य पुंसः ।
नारायणस्य नरकार्णवतारणस्य
     पारायणप्रवणविप्रपरायणस्य ॥२॥

प्रातर्भजामि भजतामभयङ्करं तं
     प्राक्सर्वजन्मकृतपापभयापहत्यै ।
यो ग्राहवक्त्रपतिताङ्घ्रिगजेन्द्रघोर-
     शोकप्रणाशनकरो धृतशङ्खचक्रः ॥३॥

इति श्रीविष्णोः प्रातःस्मरणम्

एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.