चतुर्विंशत्यवतारस्तोत्रम्

चतुर्विंशत्यवतारस्तोत्रम्
 
पातालगं क्षितितलं सुरवृन्दपाता हत्वाऽऽदिदैत्यमुदधेर्निदधौ जलोर्ध्वम् ।
उद्धृत्य चातनुत यस्तनुतो यजूंषि तं सूकरं प्रथमप्रथमं नमामि ॥ १॥  var  तं शङ्करं
स्वायम्भुवं मनुमपाच्च भुवं समस्तां भूत्वा तदीयतनयातनयोऽथ हत्वा ॥ 
यः स्वात्मजैः सुरगणैरसुरव्रजं तं यज्ञं द्वितीयमभवाय भजेऽद्वितीयम् ॥ २॥

प्रादुर्बभूव भवदुर्बलचित्तवृत्तीन् ज्ञानोपदेशरहितानुपदेष्टुकामः ।
यो देववन्द्यचरणो ननु देवहूत्यां वन्देऽवगाहकपिशं कपिलं तृतीयम् ॥ ३॥

यः सूनुकामुकमसूनुपरोधयन्तं सन्तोषयन् स्वजनकं स्वजनार्तिहात्रिम् ।
जज्ञे विधूतभवभीरवधूतवेषो दत्तो भवप्रभवदुःखहरोऽस्तु तुर्यः ॥ ४॥

सङ्कल्पमात्रकरणाद्गतकल्पनष्टं गूढं स्वतत्त्वनिगमं सुगमं करिष्यन् ।
धातुर्विचारचतुरोऽजनि यश्चतुर्धा सेवस्व पञ्चममपञ्चशरं कुमारम् ॥ ५॥

सत्कारमर्हति सतामपकारकोऽपीत्येवंविधामृषिगिरं विशदां विध्यास्यन् ।
योऽशेषदोषसदने मदनेऽदयिष्ट नारायणो विजयदो जयतात् स षष्ठः ॥ ६॥

यः केशवेऽकृतरतिं किल शैशवेऽपि दृष्ट्वा स्वदुःखहरणं शरणं तदेव ।
तस्मै सुनीतितनयाय नयान्विताय नित्यं ध्रुवाय वरदं वरयेऽश्वसंख्यम् ॥ ७॥

किं वेनमुत्पथगतं पुपुवे न भूमिं किं दुग्धरूपमथ सारमदुग्ध यो न ।
तं वै हिताय जगतां विहितावतारं वन्देऽष्टमं पृथुमहं पृथुलप्रतापम् ॥ ८॥

पूर्वं निजाचरणतो गृहिणामपूर्वं धर्मं जनाय निदिदेश  जनान्तरज्ञः ।
योऽन्ते तथैव विरजस्तमसां विरज्यन्नत्यर्षभोऽस्तु नवमो नवसिद्धिदः सः ॥ ९॥

निद्रान्वितस्य मुखतो हि चतुर्मुखस्य स्रस्ता जले प्रतिददेऽप्रितमः श्रुतीर्यः ।
हत्वा तुरङ्गवदनं चतुरं रणे तं सौख्येहया किल भजे दशमं हयास्यम् ॥ १०॥

सत्यव्रताय निजभक्तिरताय नित्यं गुह्यं पुरा विविदिषुः स्वपुराणतत्त्वम् ।
योऽकालजे प्रलयकालजले व्यहार्षीदेकादशो जगति मे गतिरस्तु मत्स्यः ॥ ११॥

पृष्ठेन मन्दरममन्दभरं गिरिं यः क्षीरोदधावमरदैत्यकृते दधार ।
निःश्वासनर्तिततरङ्गसुरङ्गलुब्धः स द्वादशोऽस्तु कुदशोपशमाय कूर्मः ॥ १२॥

सर्वं जगद्धरिमयं जगतीति वाक्यं तथ्यं विधातुमथ चित्रतनूं विधाय ।
स्तम्भादजायत सदा यततां दुरापः सोऽस्तु त्रियुक्तदशमः शमदो नृसिंहः ॥ १३॥

वात्सल्यमात्मपुरुषेषु पुरुप्रतापः सन्दर्शयन्नविरतं निरतं स्वभक्तौ ।
ग्राहादमोचयदमोघबलो गजेन्द्रं भूत्यै हरिर्मनुमितोऽस्त्वमितोपमः सः ॥ १४॥

सर्वस्वमेव बलयेऽर्पयते स्वमेष प्रत्यर्पयत्तदपरं न तदर्हमग्र्यम् ।
लोकत्रये किमपि वस्तु विलोकमानः श्रिवामनो वसतु पञ्चदशो मनोऽब्जे ॥ १५॥

पृष्टान्निगूढविषयान् सुविषण्णचित्ते जाते विधातरि विधातृसुतैः सुविज्ञैः ।
उद्भूय सुष्ठुतरमुत्तरयाञ्चकार स्यात् षोडशः परमहंसगतिः स हंसः ॥ १६॥

आविर्बभूव भुवि भूवलयं प्रपातुं यः सज्जनेषु किल कल्पपलाशिकल्पः ।
दुष्टव्रजस्य दहने दहनोऽद्वितीयस्तं त्वां मनुं पुरुषसप्तदशं मनुष्व ॥ १७॥

योऽर्थाय विष्णुरुदघेरुदभूत् सुराणां नानाविधामयविनाशविधानविज्ञः ।
पीयूषयूषपरिपूर्णघटं गृहीत्वा धन्वन्तरिः सुखकरोऽस्तु करोनविंशः ॥ १८॥

राजन्यकं प्रवरराजगुणैर्विहीनं गर्वात्स्वधर्मपरधर्मविचारशून्यम् ।
योऽनेकवारमवधीदवधीरितस्तमेकोनविंशमवबुध्यति को न रामम् ॥ १९॥

पित्र्यं नियोगमतिदीर्घवियोगदायि सम्मानयन् मनुसमा व्यनयद्वनेषु ।
यः स्वीयरक्षणकृते विहितक्षणस्तं श्रीराममाश्रयवरं  श्रय चित्त विंशम् ॥ २०॥

सम्पीडितां मनुजपैर्दनुजस्वभावैरुज्जीवयन् वसुमतीं वसुदेवगेहे ।
आविर्बभूव जनतापरितापहृत् स कृष्णोऽस्तु मेऽपि गदहा गदयैकविंशः ॥ २१॥

कालेन नष्टधिषणान् प्रबलेन वीक्ष्य लोकान् पराशरमुनेः शरणेऽवतीर्णः ।
भक्तप्रियः श्रुतिगणं बहुधा व्यभंक्त व्यासोऽस्तु मे शिवकरः करनेत्रसंख्यः ॥ २२॥

लोके मखादिमिषतस्त्वसुखादिबीजां व्याप्तां प्रभूतकरणेऽमितभूतहिंसाम् ।
यो मूलतः किल विमूलयितुं प्रजज्ञे चित्ते त्रिनेत्रकलनं कलयामि बुद्धम् ॥ २३॥

प्राप्तेषु सत्सु तनुतां प्रचुरेष्वसत्सु धर्मे तिरोहितवति प्रसृते त्वधर्मे ।
जज्ञेऽथ विष्णुयशसो निलये यशस्वी कल्की प्रसिद्धचरितोऽवतु सिद्धसंख्यः ॥ २४॥

  ॥ इति श्री चतुर्विंशत्यवतारस्तोत्रं सम्पूर्णम् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.